संस्कारशब्दपरिचयः
संस्कृतं संस्कृतिः संस्कारश्चेति एतत्त्रयं परस्परं संश्लिष्टम्।भारतीयसंस्कृतिःएकतस्तु संस्कृतभाषामाध्यमेन सम्यगवबुध्यते,अपरतश्च संस्कारैः सु-अभिव्यज्यते ।यथा संस्कृतं भारतीयसंस्कृतेः वाचिकं रूपं तथैव संस्कारोSपि भारतीयसंस्कृतेः व्यावहारिकं वैभवम् अभिधीयते।मानवसभ्यतायाः सर्वाङ्गीणविकासक्रमे संस्काराणां महती आवश्यकता वर्तते। यथा दूषितजलस्य संस्कारद्वारा सर्वत्र विनियोगः संभवति, तथैव संस्काराणामनुष्टानेन सर्वकर्मषु योग्यता आगच्छति।
अतः "अयुक्तस्य पदार्थस्य योग्यताssपादानं नाम संस्कारः"।वैदिककादेव संस्काराणां वर्णनं प्राप्यते एवं वेदस्य कर्मकाण्डभागे संस्काराणामुल्लेखः प्राप्यते।

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें